वांछित मन्त्र चुनें

सु॒न्वन्ति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहन्ति॒ ते । दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयन्त आ॒सभि॑: ॥

अंग्रेज़ी लिप्यंतरण

sunvanti somaṁ rathirāso adrayo nir asya rasaṁ gaviṣo duhanti te | duhanty ūdhar upasecanāya kaṁ naro havyā na marjayanta āsabhiḥ ||

पद पाठ

सु॒न्वन्ति॑ । सोम॑म् । र॒थि॒रासः॑ । अद्र॑यः । निः । अ॒स्य॒ । रस॑म् । गो॒ऽइषः॑ । दु॒ह॒न्ति॒ । ते । दु॒हन्ति॑ । ऊधः॑ । उ॒प॒ऽसेच॑नाय । कम् । नरः॑ । ह॒व्या । न । म॒र्ज॒य॒न्ते॒ । आ॒सऽभिः॑ ॥ १०.७६.७

ऋग्वेद » मण्डल:10» सूक्त:76» मन्त्र:7 | अष्टक:8» अध्याय:3» वर्ग:9» मन्त्र:2 | मण्डल:10» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - स्तुति को चाहते हुए (रथिरासः) रमणीय मोक्ष लक्ष्यवाले (अद्रयः) मन्त्रवचन के अध्यापक (सोमं सुन्वन्ति) शान्तस्वरूप परमात्मा को अपनी आत्मा में साक्षात् करते हैं (अस्य) इस परमात्मा के (रसं निः-दुहन्ति) आनन्द को आत्मा में ग्रहण करते हैं तथा (उपसेचनाय) अन्यों के लिए भी देने के लिए (ऊधः) उस ऊधोरूप-आनन्दाधार परमात्मा को (दुहन्ति) दोहते हैं (नरः) वे जीवन्मुक्त (कं हव्या) प्रार्थनीय वचनों को (न) सम्प्रति (आसभिः) मुखों से (मर्जयन्तः) प्रेरित करते हुए वर्तमान रहते हैं ॥७॥
भावार्थभाषाः - जीवन्मुक्त महानुभाव स्तुतियों के द्वारा अपनी आत्मा में परमात्मा को साक्षात् करते हैं और अन्यों के लिए भी अपने प्रवचनों से उन्हें परमात्मा की ओर प्रेरित करते हैं ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (गविषः) स्तुतिवाचमिच्छन्तः (रथिरासः) रमणीयमोक्षलक्ष्यवन्तः “रथिरः प्रशस्ता रथा विद्यन्ते यस्य सः” [ऋ० ३।१।१७ दयानन्दः] (अद्रयः) श्लोककृतो मन्त्रवचनस्याध्यापकाः “अद्रिरसि श्लोककृत्” [काठ० १।५] (सोमं सुन्वन्ति) शान्तस्वरूपं परमात्मानं स्वात्मनि साक्षात् कुर्वन्ति (अस्य) परमात्मनः (रसम्-निः-दुहन्ति) आनन्दमन्तरात्मनि गृह्णन्ति “आनन्दो वै रसः रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” तथा (उपसेचनाय ऊधः-दुहन्ति) अन्येभ्योऽपि उपपरिवेशनाय तमूधोरूपं परमात्मानं दुहन्ति (नरः कं हव्या न आसभिः-मर्जयन्तः) ते जीवन्मुक्ताः खलु हव्यानि प्रार्थनीयवचनानि सम्प्रति “नकारः सम्प्रत्यर्थे” [निरु० ६।८] मुखैः प्रेरयन्तः सन्तः “मार्ष्टि गतिकर्मा” [निघ० २।१४] ॥७॥